________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५५) स्वभाव प्रशंसा ।
एकतडागे यद्यपि, पिबति भुजङ्गो जलं तथा गौश्च ।
परिणमति विषं सर्प, तदेव गवि जायते क्षीरम् ॥३३२॥ पुण्य का फल । सती सुरूपा सुभगा विनीता,प्रियाभिरामा सरलस्वभावा ।
सदा सदाचारविचारदक्षा, सा प्राप्यते पुण्यवशावरेण। भार्या कैसी होनी चाहिए ?। कार्येषु मंत्री कर्णेषु दासी, भोज्येषु माता शयेनेषु रम्भा। मनोऽनुकूला क्षमया धरित्री, षड्गुणमायो कुलमुद्धरति।। हंसादरनिवासिनो वसुमती प्रादुर्भवत्कन्दला, पद्मानो निधनं जडैः परिचयः पङ्कातिरेकः पथि । जातः स्वैरविहारिणो द्विरसनाः शूरप्रतापक्षयः जीमुतौ हि करालकेलिकलितस्तन्मूर्तिभाजामभूत् ।। सूर्य भत्तरिमुत्सृज्य, जीमूतं मारुतं गिरि । स्वयोनि मूषिका प्राप्ता स्वजाति१रतिक्रमा ॥३३६॥ महाभारत ।
अत्र द्रोणशतं दग्धं, पाण्डवानां शतत्रयम् । दुर्योधनसहस्रं च, कर्णसंख्या न विद्यते ॥ ३३७ ।। गङ्गास्तुति ।
मातः शैलसुता सपत्निवसुधा शृंगारहारालि, स्वर्गारोहणवैजयन्ति भवती भागीरथी प्रार्थये ।
For Private And Personal Use Only