________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५४ ) योग्यकी प्रति योग्य । । शठं प्रति शाठ्यं कुर्यात्, आदरं प्रति चादरं ।
त्वया स मुच्यते पक्ष, मया च नाम्यते शिरः ॥३२६॥ शृंगारवर्णन।
क्षौरं मजनवस्त्र भालतिलकं गात्रेषु गंधार्चनम् । कर्णे कुण्डलमुद्किा च मुकुटं पादौ च चर्मायती । हस्तं खड्गकटारकं कटिधुरि विद्याविनीतं मुखे ।
ताम्बूलं करकंकणं चतुरता शृंगारके षोडशः ॥ ३२७ ।। परपीडा पाप है।
अष्टादशपुराणेषु, व्यासस्य वचनद्वयम् । परोपकारः पुण्याय, पापाय परपीडनम् ॥ ३२ ॥ शूरवीरता ।
अनेन तव पुत्रस्य, प्रसुप्तस्य वनान्तरे । शिखामाक्रम्य पादेन, खड्गेन पातितं शिरः ॥३२९ ।। वनिकपुत्र ।
आदौ नम्रः पुनर्नम्रः, कार्यक्लेशेषु निष्ठुरः । कार्य कृत्वा पुनर्नम्रः, शिशुतुल्यवणिक्सुतः ।। ३३० ॥ नरक-प्रतिति ।
यत्र नास्ति मनःप्रीतिः, यत्र न प्रियदर्शनम् । यत्रास्ति परतन्त्रत्वं, तद्राज्यं नरकं विदुः ॥ ३३१ ।।
For Private And Personal Use Only