________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५२) आगमकी आवश्यकता । इह किल कलिकाले चएडपाखण्डिकीर्णे व्यपगतजिनचन्द्र केवलज्ञानहीने । कथमिव तनुभाजां संभवेद् वस्तुतत्त्वाऽवगम इह यदि स्यानागमः श्रीजिनानाम् ॥३१५ ॥ लोभादि निन्दनीय है।
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकै ?, सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं निजैः सुमहिमा यद्यस्ति किं मंडन:,
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ वैशेषिककी मुक्ति निन्दनीय है।
वरं वृन्दावने रम्ये क्रोष्टुत्वं परिवाश्चिछतम् ।
न तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति ॥ ३१७ ॥ तीर्थ-प्रशंसा।
अन्यस्थाने कृतं पापं, धर्मस्थाने विनश्यति । धर्मस्थाने कृतं पापं, वज्रलेपो भविष्यति ॥ ३१८ ॥ अन्यक्षेत्रे कृतं पापं, तीर्थक्षेत्रे विनश्यति । तीर्थक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥ ३१९ ॥
For Private And Personal Use Only