________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( ४१ )
Acharya Shri Kailassagarsuri Gyanmandir
- कालिदास का उत्तर |
कियदत्र जलं विप्र ! जानुदन्नं नराधिप ! | तदा केयमवस्था ते, न हि सर्वे भवादृशाः ॥ २४२ ॥ रामचन्द्र स्तुति |
"
यद्भग्नं धनुरीश्वरस्य शिशुना यद् जामदग्न्यो जितः, त्यक्ता येन गुरोर्गिश वसुमती बद्धो यदम्भोनिधिः । एकैकं दशकंधरस्य भयकृत् रामस्य किं वर्ण्यते, दैवं वर्णय येन सोऽपि सहसा नीतः कथाशेषतां ॥ २४३ ॥
देह असारता ।
यदि नामास्य कायस्य यदंतस्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकश्च वारयेत् ॥ २४४ ॥ उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्न वीजस्व या । रोगैरंकुरितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं सोढा नो यदि सम्यमेष फलितो दुःखैरधोगामिभिः ॥ २४५॥ साधुप्रशंसा |
सावद्ययोगविरतो, गौरवत्रयवर्जितः । त्रिगुप्तः पंचसमितो रागद्वेषविनाकृतः ॥ २४६ ॥ निर्ममो नगरवसत्यं गोपकरणादिषु । ततोऽष्टादशशीलांगसहस्रधारणोद्धुरः || २४७ ।। निरन्तरं यथाशक्ति, नानाविधतपः परः । संयमं सप्तदशधा, धारयन्नविखण्डितम् ॥ २४८ ॥
For Private And Personal Use Only