________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४० )
ये पिबन्ति तमाखुं वै लक्ष्मीर्नश्यति तद्गृहात् । दारिद्र्यं वसति तेषां गुरौ भक्तिर्न संभवेत् ॥ २३४ ॥ घोरे कलियुगे प्राप्ते सर्वे वर्णाश्रमे रताः । तमालं भक्षितं येन स गच्छेत् नरकार्णवे ।। २३५ ॥
ब्रह्मा भी खुश नहीं रहता ।
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ।। २३६ ॥
मातंगी प्रथमे प्रोक्ता द्वितीये रजकी मता । रजस्वला तृतीये च शूद्रा तुर्ये च वासरे ॥ २३७ ॥
जातिका प्रभाव |
नेच्छन्ति प्राकृतं मूर्खा मक्षिका चन्दनं यथा । क्षीरानं शूकरा यद्वद्, घूका इव रविप्रभाम् ॥ २३५ ॥
तमाखुपान निन्दा |
ब्राह्मणाः चत्रिया वैश्याः शूद्राय मुनिसत्तम ! | श्वपचैः सदृशा ज्ञेयास्तमाखुपानमात्रतः ।। २३९ ॥ धूम्रपानरतं विप्रं दानं कुर्वन्ति ये नराः । दातारो नरकं यान्ति ब्राह्मणो ग्रामशूकरः ॥ २४० ॥ यस्तमाखुं पिबेत् सोऽपि स्वाश्रमान्निरये पतेत् । नारदाऽत्र न संदेहः सत्यं सत्यं मयोदितम् ॥ २४१ ॥
For Private And Personal Use Only