________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३७ ) सच्चे और नित्य कुटुम्बी कोण है ? धर्मों यस्य पिता क्षमा च जननी भ्राता मनःसंयमो, मित्रं सत्यमिदं दया च भगिनी वीरागता गेहिनी । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं, यस्यैतानि सदा कुटुम्बमनघं तस्येह कष्टं कथं ? ॥२१४॥ वह्नि प्रशंसा ।
तेजोमयोऽपि पूज्योऽपि, पापिना नीचधातुना ।
अयसा संगतो वह्निः, सहते घनताडनम् ॥ २१५ ॥ नाच संगकी निन्दा । महतोऽपि कुसंसर्गात् महिमा हीयते किल । कियन्नन्दति कर्पूरगन्धो लशुनसंगतः ॥ २१६ ॥ अंबस्स य निंबस्स य दुण्हवि समागयाई मूलाई । संसग्गए विणहो, अंबो निंवत्तणं पत्तो ॥ २१७ ।। कर्म की प्रधानता। इन्द्रोऽपि कीटतां याति, नरकं चक्रवर्त्यपि । पृथ्वीनाथोऽपि भृत्यत्वं, धनाढ्योऽपि दरिद्रताम् ॥ २१८ ॥ नीरोगोऽपि सरोगत्वं दौर्भाग्यं सुभगोऽपि च । सर्वसुख्यपि दुःखित्वं, समर्थोऽप्यसमर्थताम् ॥२१९ ॥ कौन कारण से नारी दूसरा पति कर सकती है । ( पुराण) पत्यौ प्रव्रजिते क्लीवे प्रनष्टे पतिते मृते । पंचस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ २२० ।
For Private And Personal Use Only