SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७३ ) ।। १२०१ ।। ॥ १२०४ ॥ तीक्ष्णधारेण खङ्गेन वरं जिह्वा द्विधा कृता । न तु मानं परित्यज्य देहि देहीति भाषणम् उपकर्तु यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां इन्ति न कदापि तु वारिधिः ॥ १२०२ ॥ सुखार्थी च त्यजेद् विद्यां विद्यार्थी च त्यजेत् सुखम् । सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥ १२०३ ॥ श्रात्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः । परं परोपकारार्थ यो जीवति स जीवति बहूनामन्पसाराणां समवायो दुरत्ययः । तृणैर्विधीयते रज्जुर्बध्यन्ते दन्तिनस्तया महाजनस्य संसर्गः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम् काचः काञ्चनसंसर्गाद् धत्ते मारकतीं चुतिम् । तथा सङ्गेन विदुषां मूर्खो याति प्रवीणताम् निष्णातोऽपि हि वेदान्ते साधुत्वं याति नो खलः । चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति चिन्तनीया हि विपदामादावेव प्रतिक्रियाः । न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।। १२०६ ॥ ।। १२०७ ।। ॥। १२०८ ॥ ।। १२०९ ॥ ॥। १२१० ।। १ ' पुरुषः ' इति शेषः । For Private And Personal Use Only ।। १२०५ ।।
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy