SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७२) उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः। एतानि यत्र वर्तन्ते तत्र देवः प्रसीदति ॥११९३ ॥ आरोग्यं विद्वत्ता, सज्जनमैत्री महाकुले जन्म । स्वाधीनता नराणां, महदैश्वर्य विनाप्यर्थैः ॥ ११९४ ॥ गुणी गुणं वेत्ति ज वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः। पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः ॥ ११९५ ॥ सत्यं तपो ज्ञानमहिंसतां च वृद्धप्रणामं च सुशीलतां च । एतानि यो धारयते स विद्वान् __ न केवलं वेदविदेव विद्वान् ॥११६६ ।। परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥ ११९७ ॥ पुस्तकं येन नाधीतं नाधीतं गुरुसनिधौ । सभायां शोभते नैव हंसमध्ये बको यथा ॥११९८ ॥ स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो निष्फलं तस्य जीवितम् ॥ ११९९ ॥ चाण्डालश्च दरिद्रश्च जनावेतौ समाविह । चाण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ १२००॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy