________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६२) मार्गे मार्गे निर्मलं ब्रह्मवृन्दं ___वृन्दे वृन्दे तत्त्वचिन्तानुवादः । वादे वादे जायते तत्वबोधो
बोधे बोधे भासते चन्द्रचूडः ॥१०९३ ।। चिकीर्षिते कर्मणि चक्रपाणे
पेक्षते तत्र सहायसंपत् । पाश्चालजायाः पटसंविधाने ___ मध्येसमं यत्र तुरी न वेमा ॥१०६४ ॥ पुष्पेषु चम्पा नगरीषु लङ्का
नदीषु गङ्गा च नृपेषु रामः । योषित्सु रंभा पुरुषेषु विष्णुः
काव्येषु माघः कविकालिदासः ॥१०९५ ॥ गतास्ते दिवसा राजन् देवाः सेवानुवर्तिनः । दशानन दशां पश्य तरन्ति दृषदोऽम्भसि ॥१०९६।।
अग्रतश्चतुरो वेदाः पृष्ठतः सशरं धनुः।। इदं ब्राह्ममिदं क्षात्रं शापादपि शरादपि ॥१०९७॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥१०९८।। न तेन स्थविरो भवति येनास्य पलितं शिरः ।
बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः॥११९६।। भारं स वहते तस्य ग्रन्थस्यार्थ न वेत्ति यः। यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥११०० ॥
For Private And Personal Use Only