SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५९ ) तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥१०७२ ॥ शिला बाला जाता चरणरजसा यत्कुलशिशोः स एवायं सूर्यः सपदि निजपादैगिरिशिलाम् । स्पृशन् भूयो भूयो न खलु कुरुते कामपि वधूम् कुले कश्चिद् धन्यः प्रभवति नरः श्लाध्यमहिमा ||१०७३॥ तृणादपि लघुस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामेवं प्रार्थयेदिति ॥१०७४॥ पङ्गो वन्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योऽन्ध त्वं धनमदवतां नेक्षसे यन्मुखानि । श्लाघ्यो मूक त्वमपि कृपणं स्तौषि नार्थाशया य: स्तोतव्यस्त्वं बधिर न गिरं यः खलानां शृणोषि ॥१०७॥ वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ १०७६ ।। शय्या वस्त्रं चन्दनं चारु हास्यं वीणा वाणी सुन्दरी या च नारी। न भ्राजन्ते नुत्पिपासातुराणां सर्वारम्भास्तण्डुलप्रस्थमूलाः ॥१०७७ ॥ भादौ रामतपोवनादिगमनं मायामृगोन्माथनं, वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् । वालिव्याहननं समुद्रतरणं लंकापुरीदाहनम् पभाद् रावणकुंभकर्णहननं एतद्धि रामायणम् ॥१०७८॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy