________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५८) इति श्रियाऽशिक्षि सहोदरेभ्यो, __ न वेमि कस्माद् गुणवद्विरोधः ॥१०६३॥ मान्धाता स महीपतिः कृतयुगालंकारभूतो गतः सेतुर्येन महोदधौ विरचितः कासौ दशास्यांतका ?। अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते ! नैकेनापि समं गता वसुमती नूनं त्वया यास्यति ॥१०६४॥
एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता। दातृयाचकयोर्मेदः कराभ्यामेव सूचितः ॥१०६॥ अयश्चणकचर्वणं फणिफणामणेः कर्षणम्,
करेण करितोलनं जलनिधेः पदा लंघनम् । प्रसुप्तहरिबोधनं निशितखङ्गसंस्पर्शनम् । __ कदाचिदपि संभवेत्र कृपणस्य वित्तार्जनम् ॥१०६६॥ ग्रासोदलितसिक्थस्य का हानिः करिणो भवेत् । पिपीलिका तु तेनैव सकुटुंबाऽपि जीवति ॥१०६७ ॥ अलंकरोति हि जरा राजामात्यभिषग्यतीन् । विडंबयति पण्यस्त्रीमल्लगायकसेवकान् ॥१०६८ ॥ दूरस्थाः पर्वता रम्या वेश्या च मुखमंडने । युद्धस्य वार्ता रम्या च त्रीणि रम्याणि दूरतः ॥ १०६९ ॥ अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।। सकलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ १०७० ॥ कवयः परितुष्यन्ति नेतरे कवियक्तिभिः ।। न झपारवत् कृपा वर्धन्ते विधुकान्तिभिः ॥१०७१ ।।
For Private And Personal Use Only