________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५७) किं तद्व्यं कोकिलेनोपनीतं ___को वा लोके गर्दभस्यापराधः ॥१०५७॥ ऊर्णा नैष बिभर्ति नैष विषयो दोहस्य वाहस्य वा, तृप्तिर्नास्य महोदरस्य बहुभिर्घासैः पलालैरपि । हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते, को गृह्णाति कपर्दकैरिममिति ग्राम्यैर्गजो हास्यते ॥१०५८॥
धनानि भूमौ पशवश्च गोष्ठे ___भार्या गृहद्वारि जनः श्मशाने । देहश्चितायां परलोकमार्गे
कर्मानुगो गच्छति जीव एकः ॥ १७५४ ।। निर्वाणदीपे किमु तैलदानं
चौरे गते वा किमु सावधानम् । वयोगते किं वनिताविलासः
पयोगते किं खलु सेतुबन्धः ॥ १०६०॥ इयं सुंदरी मस्तकन्यस्तकुंभा
कुसुंभारुणं चारु चेलं वसाना । समस्तस्य लोकस्य चेतःप्रवृत्ति
गृहीत्वा घटे न्यस्य यातीव भाति ॥१०६१ ॥ समत्वाकांक्षिणी भार्या विवादे ज्यूरराऽभवत् । स्तन्यार्थे बालको गेहे रोति नाथोऽप्यनाथवत् ॥१०६२॥ चांचल्यमुच्चैःश्रवसस्तुरंगात्,
कौटिल्यमिदोर्विषतो विमोहः । ...
For Private And Personal Use Only