________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५६)
हस्तमुत्तिप्य यातोऽसि बलात् कृष्ण किमद्भुतम् ? हृदयाद् यदि निर्यासि पौरुषं गणयामि ते ॥१०५० ॥ भकारो कुंभकर्णेऽस्ति भकारोऽस्ति विभीषणे । तयोज्येष्ठे कुलश्रेष्ठे भकारः किं न वर्तते ॥१०५१॥ क्वचिद् वीणावाद्यं क्वचिदपि च हाहेति रुदितम् क्वचिद् विद्वद्गोष्ठी कचिपि सुरामत्तकलहः । क्वचिद् रम्या रामाः क्वचिदपि गलत्कुष्ठवपुषो न जाने संसारः किममृतमयः किं विषमयः ? ॥१०५२॥ काक माह्वयते काकान् याचको न तु याचकान् । काकयाचकयोर्मध्ये वरं काको न याचकः ॥१०५३।। हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कशो वज्रेणाभिहताः पतन्ति गिरयः किं शैलमात्रः पविः । दीप प्रज्वलिते विनश्यति तमः किं दीपमात्रं तमः तेजो यस्य विराजते स बलवान् स्थूलेषु का प्रत्ययः।।१०५४॥ कचिद् भूमौ शय्या क्वचिदपि च पर्यशयनम् क्वचिच्छाखाहारी क्वचिदपि च शाल्योदनरूचिः। कचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥१०५॥ अद्यापि दुर्निवारं स्तुतिकन्या वहति कौमारम् । सद्भ्यो न रोचते साऽसंतोऽप्यस्यै न रोचन्ते ॥१०५६॥ वाङ्माधुर्यानान्यदस्ति प्रियत्वं वापारुष्याच्चोपकारोऽपि नष्टः ।
For Private And Personal Use Only