________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यावजीवं सुखं जीवेद् ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ? ॥१०३३ ।। सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।। प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥१०३४ ।। मलातं तिन्दुकस्येव मुहूर्तमपि हि जल । मा तुषाग्निरिवानर्चिधूमायस्व जिजीविषुः ॥१०३५ ॥ निर्वनो बध्यते व्याघ्रो नियाघ्रं छिद्यते वनम् । तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत् ॥१०३६॥ प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यसि ? ॥१०३७ ।। कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ १०३८ ॥ कमला कमले शेते हरिः शेते महोदधौ । हरो हिमालये शेते मन्ये मत्कुणशङ्कया ॥१०३९ ।। भस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।। बादरायणसंबन्धात् यूयं यूयं वयं वयम् ॥१०४०॥ न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह । पयोऽपि शौण्डिनीहस्ते मदिरां मन्यते जनः ॥१०४१॥ इतरपापफलानि यथेच्छया,
वितर तानि सहे चतुरानन । अरसिकेषु कवित्वनिवेदनं
शिरसि मा लिख मा लिख मा लिख ॥१०४२॥
For Private And Personal Use Only