SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५३) हरेः पदाहतिः श्लाघ्या न श्लाघ्यं खररोहणम् । स्पर्धाऽपि विदुषा युक्ता न युक्ता मूर्खमित्रता ॥१०२४ ॥ दारेषु किंचित् स्वजनेषु किंचिद् गोप्यं वयस्येषु सुतेषु किंचित् । युक्तं न वा युक्तमिदं विचित्य वदेद् विपश्चिन्महतोऽनुरोधात् ॥१०२५ ।। पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् । मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥१०२६॥ ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥१०२७ ।। शनैः पन्थाः शनैः कन्थाः शनैः पर्वतमस्तके। शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥१०२८॥ एकस्तपो द्विरध्यायी विमिर्गीतं चतुः पथम् । सप्त पश्च कृषीणां च संग्रामो बहुभिर्जनैः ॥१०२६ ।। श्रुतिविभिन्ना स्मृतयश्च भिन्ना नैको मुनिर्यस्य वचोऽप्रमाणम् । धर्मस्य तवं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥१०३० ॥ अन्यैः साकं विरोधेन वयं पञ्चोत्तरं शतम् । परस्परविरोधेन वयं पञ्च च ते शतम् ॥ १०३१ ।। भरावप्युचितं कार्यमातिथ्यं गृहमागते । छत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः ॥१०३२ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy