________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५०) सद्यः फलति गांधर्व, मासमेकं पुराणकम् । वेदाः फलंति कालेषु, ज्योतिर्वैद्यं निरंतरम् ॥ ९९४ ॥ सहते शरशतघातानाजानेयः कशां नैव । सहते विपत्सहस्रं मानी नैवापमानलेशमपि ॥६६५ ।।
जानामि नागेन्द्र तव प्रभावं __ कण्ठे स्थितो गर्जसि शंकरस्य । स्थानं प्रधानं न बलं प्रधानं
स्थानं स्थितः कापुरुषोऽपि शूरः ॥९९६ ॥ सत्सङ्गाद् भवति हि साधुता खलाना,
पंडितसाधूनां न हि खलसंगमात् खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न हि कुसुमानि धारयन्ति ॥९९७ ॥ अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरम् । दम्पत्योः कलहश्चैव परिणामे न किंचन उत्तमा आत्मना ख्याता पितुः ख्याताश्च मध्यमाः। अधमा मातुलात् ख्याताः श्वशुराचाधमाधमाः ।। ६६६ ॥ हस्तादपि न दातव्यं गृहादपि न दीयते । परोपकरणार्थाय वचने किं दरिद्रता ? ॥१००० ॥ निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहता शशिशुभ्रं शङ्खमपि पीतम् ॥१००१॥ सुलभाः पुरुषा राजन् , सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य, वक्ता श्रोता च दुर्लभः ॥१००२॥
For Private And Personal Use Only