SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५१) पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः । न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥ १००३ ॥ बालोऽपि चौरः स्थविरोऽपि चौर, समागतः प्राघुर्णिकोऽपि चौरः । दिल्लीप्रदेशे मथुराप्रदेशे चौरं विना न प्रसवन्ति नार्यः ॥१००४॥ अनमपि माणिक्यं हेमाश्रयमपेक्षत । विनाश्रयं न शोभन्ते पण्डिता वनिता लताः ॥१००५॥ गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोयुद्धं रामरावणयोरिव ॥१.०६॥ कालो वा कारणं वा राज्ञो राजा वा कालकारणम् । इति ते संशयो मा भूत् राजा कालस्य कारणम् ।।१००७॥ दृष्ट्वा यतियति सद्यो वैद्यो वैद्य नट नटः। याचको याचकं दृष्ट्वा श्वानवद् घुघुरायते ॥१००८॥ आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला । यया बद्धाः प्रधावंति मुक्तास्तिष्ठंति पंगुवत् ॥१००९॥ शृगालोऽपि वने कर्ण शशैः परिवृतो वसन् । मन्यते सिंहमात्मानं यावत् सिंहं न पश्यति ॥१.१०॥ नमस्कारसहस्रेषु शाकपत्रं न लभ्यते । आशीर्वादसहस्रेषु रोमवृद्धिर्न जायते ।। १०११॥ सुभाषितेन गीतेन युवतीनां च लीलया। यस्य न द्रवते चित्तं स वै मुक्तोऽथवा पशुः ॥ १०१२ ।। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy