________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४६) केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।९५९। यास्यति जलधरसमयस्तव च समृद्धिलेघीयसी भविता । तटिनि ! तटद्रुमपातनपातकमेकं चिरस्थायि ॥९६० ॥ दानार्थिनो मधुकरा यदि कर्णतालैः,
दूरीकृताः करिवरेण मदांधबुद्धया। तस्यैव गण्डयुगमण्डनहानिरेषा
भुंगाः पुनर्विकचपझवने वसन्ति ॥९६१॥ किं केकीब शिखण्डमण्डिततनुः किं कीरवत् पाठकः,
किं वा हंस इवांगनागतिगुरुः शारीव किं सुस्वरः । किं वा हन्त शकुन्तबालपिकवत् कर्णामृतं सिञ्चति,
काकः केन गुणेन काश्चनमये व्यापारितः पञ्जरे ॥९३२॥ स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि । असौ कुंभिप्रान्त्या खरनखरविद्रावितमहागुरुग्रावग्रामः स्वपिति गिरिगर्मे हरिपतिः ॥६६३ ॥ चातकस्य मुखचंचुसंपुटे
नो पतंति यदि वारिबिंदवः ।। सागरीकृतमहीतलस्य किं
दोष एव जलदस्य दीयते ॥६६४ ।। रे रे रासम ! वस्त्रभारवहनात् कुमासमश्नासि किम् ?
राजाश्वावसथं प्रयाहि चणकाम्यूषान् सुखं भक्षय ।
For Private And Personal Use Only