________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४५) कोशन्तः शिशवः सवारि सदनं पङ्कावृतं चांगणं,
शय्या दंशवती च रुक्षमशनं धूपेन पूर्ण गृहम् । भार्या निष्ठुरभाषिणी प्रभुरपि क्रोधेन पूर्णः सदा स्नानं शीतलवारिणा हि सततं धिर धिग् गृहस्थाश्रमम् ।।
॥६५२ ॥ न विप्रपादोदकपकिलानि, ___ न वेदशास्त्रध्वनिगर्जितानि । स्वाहास्वधाकारविवर्जितानि
श्मशानतुल्यानि गृहाणि तानि ॥६५३ ।। न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम्
॥६५४॥ भार्यावियोगः स्वजनापवाद,
ऋणस्य शेष कृपणस्य सेवा । दारिद्यकाले प्रियदर्शनं च
विनाग्निना पञ्च दहन्ति कायम् ॥९५५ ॥ चिता चिन्ता समा ढुक्ता, बिन्दुमात्रं विशेषतः । सजीवं दहते चिन्ता, निर्जीवं दहते चिता ॥६५६ ॥ दिव्यं चूतरसं पीत्वा, गर्व नायाति कोकिलः । पीत्वा कर्दमपानीयं, भेको रटरटायते ॥६५७॥ भद्रं कृतं कृतं मौनं, कोकिलैजेलदागमे ।। दर्दुरा यत्र वक्तारः, तत्र मौनं हि शोभनम् ॥ ६५८ ॥ रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् , मम्मोदा बहवो हि सन्ति गगने सर्वे तु नैतादृशाः ।
१०
For Private And Personal Use Only