________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४१) विना गोरसं को रसो भूपतीनाम्
विना गोरसं को रसो भोजनानाम् ॥ २२ ॥ कन्याप्रसूतस्य धनुष्प्रसंगात्
अंगाधिकासादितविक्रमस्य । धनंजयाधीनपराभवस्य
शीतस्य कर्णस्य च को विशेषः ॥ ९२३ ॥ अहं च त्वं च राजेन्द्र लोकनाथावुमावपि । बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान् ।। ९२४ ।। यो रात्रिंचरशेखरः किल दशास्यः कोणपान्याश्रयः वजाबाधितशक्तिको नृरुधिरं पातुं सदा वाञ्छति । उन्मत्तो मधुयोगतो भवति यस्तन्मत्कुणो रावणः तस्मान्नश्यति पुत्रपौत्रसहितः सीताभिसंधानतः ॥ ९२५ ॥ द्वंद्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः । तत्पुरुष कर्म धारय येनाहं स्यां बहुब्रीहिः ॥६२६ ॥ तनुग्रासे स एव स्याद् असुग्रासेऽपि स स्मृतः। तस्मात् सर्वप्रयत्नेन भवेद् नित्यं सुभोजनः ॥ २७ ॥ शूली जातः कदशनवशाद्वेक्ष्ययोगात् कपाली वस्त्राभावादगनवसनः स्नेहशून्याजटावान् । इत्थं राजन् तव परिचयादीश्वरत्वं मयाऽऽप्तम् तस्मान्मह्यं किमिति कृपया नार्धचंद्रं ददासि ॥१२८ ॥ खलानां धनुषां चापि सवंशजनुषामपि । गुणलामो भवेदाशु परहृद्भेदकारका ॥९२६ ॥
For Private And Personal Use Only