________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४० ) इयं यास्यत्युच्चैर्विपदमधुना वानरचमूः
लघिष्ठदं षष्ठावरपरविलोपात् पठ पुनः ॥ ९१६ ।। न तज्जलं यन्न सुचारुपङ्कजं __न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुंजितो न यो
न गुंजितं तन्न जहार यन्मनः ॥६१७ ॥ मिक्षो कन्था श्लथा ते नहि शफरिवधे जालमश्नासि मत्स्यान् ते वै मद्योपदंशाः पिबसि मधु समं वेश्यया यासि वेश्याम् । दत्वाविं मूय॑रीणां तव किमु रिपवो भित्तिभेत्तास्मि येषाम् चौरोऽसि छूतहेतोस्त्वयि सकलामिदं नास्ति नष्टे विचार!
॥६१८॥ पादिमध्यान्तरहितं दशाहीनं पुरातनम् । अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम् ॥६१६ ॥ कोऽयं द्वारि हरिः प्रयायुपवनं शाखामृगस्यात्र किम् कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । राधेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम् इत्थं निर्वचनीकृतो दयितया हीणो हरिः पातु वः॥२०॥
गवीशपत्रो नगजापहारी __ कुमारतातः शशिखण्डमौलिः । लंकेशसंपूजितपादपद्मः
पायादनादिः परमेश्वरो नः ॥६२१ ।। विना गोरसं को रसः कामिनीनाम्
विना गोरसं को रसः पण्डितानाम् ।
For Private And Personal Use Only