SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३९) नूनं न दृष्टं कविनाऽपि तेन ___ दारिद्यदोषो गुणराशिनाशी ॥९१० ॥ कस्त्वं लोहितलोचनास्य चरणः हंसः कुतो मानसात् किं तत्रास्ति सुवर्णपङ्कजवनान्यंभः सुधासनिभम् । रत्नानां निचयाः प्रवाललतिका वैडूर्यरोहः कचित् शम्बूकाः न हि सन्ति नेति च बकैराकर्ण्य हीही कृतम् ६११ गृहात्येष रिपोः शिरः प्रजविनं कर्षत्यसौ वाजिनम् धृत्वा धर्म धनुः प्रयाति पुरतः संग्रामभूमावपि । चूतं चौर्यकथा तथा च शपथं कुर्यान्न वामः करो दानानुद्यमता विलोक्य विधिना शौचाधिकारी कृतः ९१२ विप्रास्मिन् नगरे महान् कथयतां तालद्रुमाणां गण: को दाता रजको ददाति वसनं प्रातहीत्वा निशि । को दक्षः परवित्तदारहरणे सर्वोऽपि दक्षो जना कस्माजीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥९१३ भूरिभारमराक्रान्तो बाधति स्कन्ध एष ते न तथा बाधते स्कन्धो यथा बाधति बाधते ॥९१४॥ निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥९१५ ॥ भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना स रामो मे स्थाता न युधि पुरतो लक्ष्मणसखः । For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy