________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३८ ) व्याघ्र च महदालस्यं स चैव महद्भयम् । पिशुने चैव दारिद्यं तेन जीवन्ति जन्तवः ।। ९.३॥ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम्
नोलूकोऽप्यवलोकते याद दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम् __यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुंकः क्षमः ९०४ अधः पश्यसि किं वाले पतितं तव किं भुवि । रे रे मूढ न जानासि गतं तारुण्यमौक्तिकम् ॥६०५ ।। चतुरः सखि मे भर्ता यल्लिखति तत् परो न वाचयति तस्मादप्यधिको मे स्वयमपि लिखितं स्वयं न वाचयति
॥६०६॥ दश व्याघ्राः जिताः पूर्व सप्त सिंहास्त्रयो गजाः । पश्यन्तु देवताः सर्वाः अद्य युद्धं त्वया मम ॥९०७ ।। गच्छ सूकर भद्रं ते बेहि सिंहो मया जितः । पण्डिता एव जानन्ति सिंहसूकरयोर्बलम् ॥६०८ ॥
अनन्तरत्नप्रभवस्य यस्य
हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते
निमजतींदोः किरणविवांक: ॥६०९॥ एको हि दोषो गुणसंनिपाते निमजतींदोरिति यो बभाषे ।
For Private And Personal Use Only