________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३७) अवश्यंभाविभावानां प्रतीकारो भवेद्यदि । सदा दुःखैन लिप्येरन् नलराजयुधिष्ठिराः ॥८९६ ॥ प्राप्तव्यमर्थ लभते मनुष्यो
देवोऽपि तं लवयितुं न शक्तः । तस्मान शोचामि न विस्मयो मे
यदस्मदीयं न हि तत् परेषाम् ॥८६७॥ लिखिता चित्रगुप्तेन ललाटेऽक्षरमालिका ।। तां देवोऽपि न शक्नोति उल्लिख्य लिखितुं पुनः ॥८६॥
शशिदिवाकरयोग्रहपीडनम् __ गजभुजंगमयोरपि बन्धनम् मतिमतां च विलोक्य दरिद्रताम्
विधिरहो बलवानिति मे मतिः ॥८९९ ॥ तुष्टो हि राजा यदि सेवकेभ्यो
भाग्यात् परं नैव ददाति किंचित् । अहर्निशं वर्षति वारिवाहः
तथापि पत्रत्रितयः पलाशः ॥९०० ॥ प्रश्वं नैवं गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्याद् देवो दुर्बलघातकः ॥९०१ । यः सुन्दरस्तद्वनिता कुरूपा
या सुंदरी सा पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च विधेर्विचित्राणि विचेष्टितानि ॥९.२॥
For Private And Personal Use Only