SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३५ ) अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः। विदधाति रन्ध्रमेको गुणवानन्यस्तु पिदधाति ॥ ८७९ ॥ त्यजन्ति शूर्पवद् दोषान् गुणान् गृह्णन्ति साधवः । दोषग्राही गुणत्यागी चालिनीव हि दुर्जनः ॥ ८८० ॥ रविरपि न दहति तादृग् यादृक् संदहति वालुकानिकरः । अन्यस्माल्लब्धपदः प्रायो नीचोऽपि दुःसहो भवति ॥८८१॥ शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥ ८८२॥ उपकारोऽपि नीचानामपकारो हि जायते । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ ८८३ ।। मुखं पद्मदलाकारं वाणी चन्दनशीतला । हृदयं कर्तरीतुन्यं त्रिविधं धूर्तलक्षणम् ॥८८४ ॥ नलिकागतमपि कुटिलं, न भवति सरलं शुनः पुच्छम् । तद्वत् खलजनहृदयं, बोधितमपि नैव याति माधुर्यम् ।।८८५ बोधितोऽपि बहुसूक्तिविस्तरैः किं खलो जगति सजनो भवेत् । स्नापितोऽपि बहुशो नदीजलै गर्दभः किमु हयो भवेत् कचित् ॥८८६ ।। न देवाय न धर्माय न बंधुभ्यो न चार्थिने । दुर्जनेनार्जितं द्रव्यं भुज्यते राजतस्करैः ॥८८७॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy