SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३४ ) कुम्भा न कूपमपि शोषयितुं समर्थाः कुम्भोद्भवेन मुनिनाम्बुधिरेव पीतः अन्या जगद्धितमयी मनसः प्रवृत्तिः अन्यैव कापि रचना वचनावलीनाम् | लोकोत्तरा च कृतिराकृतिरार्तहृद्या ॥ ८७२ ॥ विद्यावतां सकलमेव चरित्रमन्यत् ॥ ८७३ ॥ तरुमूलादिषु निहितं, जलमाविर्भवति पल्लवाग्रेषु । निभृतं यदुपक्रियते, तदपि महांतो वहंत्युच्चैः ॥ ८७४ ॥ अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मीं तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥ ८७५ ॥ मौने मौनी गुणिनि गुणवान् पण्डिते पण्डितोऽसौ दीने दीनः सुखिनि सुखवान् भोगिनि प्राप्तभोगः । मूर्खे मूर्खो युवतिषु युवा वाग्मिषु प्राढवाग्मी धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधूतः ॥ ८७६ ॥ केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तौ विश्वं तोयैः स्नपयितुमसौ केन वा वारिवाहः । विश्वानन्दोपचयचतुरो दुर्जनानां दुरापः श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्गः ||८७७॥ दुर्जनस्वभावः । स्खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । श्रात्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ ८७८ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy