________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३३) लिखति यदि गृहीत्वा शारदा सर्वकालम् ,
तदपि तव गुणानां ईश ! पारं न याति ।। ८६५॥ जगन्मातर्मातस्तव चरणसेवा न रचिता,
न वा दत्तं देवि द्रविणमपि भूयस्तव मया । तथापि त्वं स्नेहं मयि निरुपम यत् प्रकुरुषे,
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ।।८६६॥ घृष्टं घृष्टं पुनरपि पुनश्चंदनं चारुगन्धं
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेनुकाण्डम् । दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवणेम्
न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् ।।८६७॥ मुक्त्वा निःश्रीकमप्यजं मराली न गतान्यतः । भ्रमराली त्वगाद् वेगादिदं सदसदन्तरम् ॥ ८६८ ॥
असद्भिः शपथेनोक्तं जले लिखितमक्षरम् । सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् ।।८६९।। मापदो महतामेव महतामेव संपदः । बीयते वर्धते चन्द्रः कदाचित्रैव तारकाः ॥ ८७० ॥ गुणग्रामाविसंवादि नामापि हि महात्मनाम् । यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः ॥८७१ ।। किं जन्मना च महता पितृपौरुषेण
शक्या हि याति निजया पुरुषः प्रतिष्ठाम् ।
For Private And Personal Use Only