________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३२) रुधिरमांसमेदोऽस्थि, मलमूत्रादिपूरितम् । नवद्वार रतविस्य रसक्लिनमिदं वपुः ।। ८५९ ॥ वणिकपण्यांगना दस्युतकृत्पारदारिकः ।।
स्वार्थसाधकनिद्रालु सप्तासत्यस्य मन्दिरम् ॥ ८६० ॥ गुर्वेकवाक्यादपि पापभीता, राज्यं त्यजन्ति स्म नरा हि सन्तः न्याख्यासहस्रैर्न भवेद् विरागो, ध्रुवं कलौ वज्रहृदो मनुष्याः
.८६१ ॥ अङ्गं गलितं पलितं मुण्डं,
जातं दशनविहीनं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥८६२॥ लक्ष्मीः कौस्तुभपारिजातकसुराः धन्वंतरिश्चंद्रमाः
गावः कामदुधाः सुरेश्वरगजो रंभादिदेवांगनाः। अश्वः सप्तमुखो विषं हरिधनुः शंखोऽमृतं चांबुधेः रत्नानीह चतुर्दश प्रतिदिनं कुर्यात् सदा मंगलम् ॥८६३।। चीरिण्यः सन्तु गावो भवतु वसुमती सर्वसंपन्नशस्या,
पर्जन्यः कालवर्षी सकलजनमनानन्दिनो वान्तु वाताः । मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः८६४ श्रसितगिरिसमं स्यात् कजलं सिंधुपात्रे,
सुरतरुवरशाखा लेखिनी पत्रमुवी ।
For Private And Personal Use Only