________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३१) भवन्त्यभिप्रेतफला यतस्ततो
भवन्तमार्याः प्रणता हितैषिणः ॥ ८४६ ॥ भौषधं शकुन मन्त्रं, नक्षत्रं गृहदेवता। भाग्यकाले प्रसीदन्ति, अभाग्ये यान्ति विक्रियाम् ।।८४७॥ अग्निर्विरो यमो राजा, समुद्र उदरं स्त्रियः । अतृप्ता नैव तृप्यन्ति, याचन्ते च दिने दिने ॥८४८॥ स्त्रीचरित्रं प्रेमगति, मेघोत्थानं नरेन्द्रचित्तं च । विषमविधिविलसितानि च को वा शक्नोति विज्ञातुम् ८४९ सत्येन धार्यते पृथ्वी, सत्येन तपते रविः सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥ ८५० ॥ अंतर्विषमा हि ता ज्ञेया, बहिरेव मनोहराः। गुंजाफल समाकारा, योषितः केन निर्मिताः ॥८१२॥ कुटिलगतिः कुटिलमतिः, कुटिलात्मा कुटिलशीलसंपन्ना । सर्व पश्यति कुटिलं कुटिलः कुटिलेन भावेन ॥ ८५३ ॥ संपीन्याहिदंष्ट्राऽग्नि-यम जिह्वा-विषव्रजात् । जगजिघांसुना नार्यः कृता क्रूरेण वेधसा ॥८५५ ।। समेषु शौर्य प्रशमं महत्सु नीचेष्ववज्ञां प्रणतेषु मानं । बृजत्वं निपुणे विदध्याद् धूर्तेषु कुर्यादतिधूर्तभावम् ।।८५६।।
वारिदस्तृप्तिमामोति सुखमक्षयमन्त्रदः। तिलप्रदः प्रजाभीष्टामायुष्कमभयप्रदः ॥८५७ ॥
For Private And Personal Use Only