________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२७ )
निःस्वेनैव सुखेन काननजुषा सर्वेण मर्त्येन यत्, रामेणामिततेजसा जनकजाशीलस्य तद्वल्गितम् ॥
॥ ८१७ ॥
श्रद्ध गिरिजां विभर्ति गिरीशो विष्णुर्वहत्यन्वहं, शस्त्रश्रेणिमथाऽचसूत्रवलयं धत्ते च पद्मासनः । पौलोमीचरणाहतिं च सहते धृष्टः सहस्रेक्षण
स्तन्मोहस्य विजृम्भितं निगदितं तिर्यग्जने का कथा १ 11686 11
"
ब्रह्मचारि-यतीनां च विधवानां च योषितां । ताम्बूलभक्षणं विप्र !, गोमांसान्न विशिष्यते ॥। ८१९ ।। देयं भोज ! धनं घनं सुकृतिभिर्नो संचनीयं कदा, श्री कर्णस्य बलेश्व विक्रमपतेरद्यापि कीर्तिः स्थिता | अस्माकं मधु दानभोगरहितं कष्ठैश्चिरात्सेवितं,
लुप्तं तन्मधु पादपाणियुगलं घर्षत्यसौ मक्षिका ||८२०॥ प्रातः द्यूतप्रसंगेन, मध्याह्ने स्त्रीप्रसंगतः । सायं चौरप्रसंगेन, कालो गच्छति धीमताम् ॥ ८२१ ॥
तथापि चित्रमुत्पद्य - कालक्षेपः करिष्यते । कालचे पाद्यदि पुनः प्रभो कोऽपि निवर्तते ॥ ८२२ ॥ शुद्धान्तसंभोगनितान्ततुष्टे, न नैषधे कार्यमिदं निगाधम् । अपां हि तृप्ताय न वारिधारा, स्वादुः सुगन्धि स्त्रदते तुबारा ।। ८२३ ।।
For Private And Personal Use Only