SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०४ ) निर्द्रव्यो धनचितया धनपतिस्तद्रक्षणे चाकुलो । निःस्त्री कस्तदुपायसंगतमतिः श्रीमानपत्येच्या ॥ पाप्तस्तान्यखिलान्यपीह सततं रोगैः पराभूयते । जीवः कोऽपि कथंचनापि नियतं प्रायः सदा दुःखितः । ६५१ | कस्तूरीकृष्णकायच्छविरतनुफणारत्न रोचिष्णुमाली । विद्युच्छाली गभीरानघवचनमहागर्जिविस्फूर्जितश्रीः ॥ वर्षन् तच्चां पूरैर्भविजनहृदयोर्व्यां लसद्बोधिवीजाङ्कुरं श्रीपार्श्वमेघः प्रकटयतु शिवानर्घ्य सस्याय शश्वत् । ६५२ | शत्रूणां तपनः सदैव सुहृदामानन्दनश्चन्द्रवत् । पात्रापात्र निरीक्षणे सुरगुरुर्दीनेषु कर्णोपमः ॥ नीतौ रामनिभो युधिष्ठिरसमः सत्ये श्रिया श्रीपतिः । स्वीयान्येष्वपि पक्षपातसुभगः स्वामी यथार्थो भवेत् ॥ ६५३ ॥ वरं रेणुर्वरं भस्म नष्टश्रीर्न पुनर्नरः । मुवत्वैनं दृश्यते पूजा क्वापि पर्वणि पूर्वयोः यां चिन्तयामि सततं मयि सा विरक्ता | साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ॥ अस्मत्कृते च परितुष्यति काचिदन्या । धिक् तां च तं च मदनं च इमां च मां च दयैव धर्मेषु गुणेषु दानं प्रायेण चान्नं प्रथितं प्रियेषु । मेघः पृथिव्यामुपकारकेषु तीर्थेषु माता तु मता नितान्तम् ॥ ६५५ ॥ ।। ६५६ ।। For Private And Personal Use Only ।। ६५४ ॥
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy