________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०१) भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भय । माने म्लानिभयं जये रिपुभयं वंशे कुयोषिद्धयम् ।। दास्ये स्वामिभयं गुणे खलभयं काये कृतांताद्भयं । सर्व नाम भयं भवेदिह नृणां वैराग्य मेवाभयम् ।। ६२७ ॥ लज्जा दया दमो धैर्य पुरुषालापवर्जनम् । एकाकित्वपरित्यागो नारीणां शीलरक्षणम् ॥६२८ ॥ यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय, किं पुनस्तचतुष्टयम् ॥६२९ ॥ आदौ मजनचारुचीरतिलकं नेत्रांजनं कुंडलं, नासामौक्तिकहारपुष्पकलिकं झंकारवन्नू पुरम् ।। अंगं चंदनचर्चितं कुचमणिचुद्रावली घण्टिका, ताम्बूलं करकंकणं चतुरता शृंगारकाः षोडश ॥ ६३० ॥ दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चकचारित्रस्य जलांजलिगुणगणारामस्य दावानलः ॥ संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः । शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचूडामणिः ॥६३१॥ भक्खणे देवदव्वस्स परत्थीगमणेण य सत्तमं नरयं यांति सत्त वारा उ गोयमा! ॥६३२॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ॥ विद्या बंधुजनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ।६३३॥
For Private And Personal Use Only