SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra " www. kobatirth.org ( ९९ ) एका भार्या त्रयः पुत्रा द्वे हले दश धेनवः । ग्रामे वासः पुराने स्वर्गादपि विशिष्यते ॥ ६१० ॥ तरुणं सर्पपशाकं नवौदनं पिच्छिलानि च दर्धानि । अपव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥३१९॥ अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् । अनाथा पृथिवी नास्ति, याम्नायाः खलु दुर्लभाः ॥ ६१२ ॥ वेश्याका नृपतिश्रौरो नीरमार्जारदंष्ट्रिणः । जातवेदाः कलादश्च न विश्वास्या इमे क्वचित् ॥ ६१३ || द्यूतं सर्वापदां धाम, द्यूतं दीव्यन्ति दुर्धियः । द्यूतेन कुलमालिन्यं द्यूताय श्लाघतेऽधमः खलः सत्क्रियमाणोऽपि ददाति कलहं सताम् । दुग्धौतोऽपि किं याति वायसः कलहंसताम् ॥ ६१५|| शास्त्रं बोधाय दानाय धनं धर्माय जीवितम् । वपुः परोपकाराय धारयन्ति मनीषिणः अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ६१८ संपदि यस्य न हर्षो, विपदि विषादो रणे च धीरत्वम् । ॥ ६१४ ॥ ॥ ६१६ ॥ · ।। ६१७ ॥ तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ||६१९ ॥ गात्रं संकुचितं गतिर्विगलिता दंताश्च नाशं गता । दृष्टिभ्रश्यति रूपमेव मते वैरूप्यवर्णोदयम् ॥ " Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy