________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
>
कः समद्धो भवति समरे १, कः प्रियवाङ्गनानां १ को दुःसङ्गाद् भवति विदुषां १, मानपूजापहारः ||५७५ ॥ पुष्पेषु माता पुरुषायमाणा लखावती विश्वसृजं विलोक्य । नाभीसरोजे नयनं मुरारेवमेतरं वारयति स्म वेगात् ॥ ५७६ ॥ जाता लता हि शैले, जातु लतायां न जायते शैलः । संप्रति तद्विपरीतं, कनकलतायां गिरिद्वयं जातम् ॥ ५७७ ॥ सहायक से शोभा बढती है ।
वस्त्रहीनमलङ्कारं, घृतहीनं च भोजनम् । स्वरहीनं च गान्धर्व, भावहीनं च मैथुनम् ॥ ५७८ ॥
प्रभु की बोध देने की कुशलता ।
सद्धर्मबीजवपनानघकौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेषु हि तामसेषु,
सूर्याशवो मधुकरीचरणावदाताः ॥ ५७९ ॥
तावश्चंद्रबलं ततो गृहबलं ताराबलं भूबलं, तावत्सिद्ध्यति वांछितार्थमखिलं तावज्जनः सञ्जनः । मुद्रामंडल मंत्रतंत्र महिमा तावत्कृतं पौरुषं, यावत्पुण्यमिदं सदा विजयते पुण्यक्षये चीयते ॥ ५८० ॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः,
For Private And Personal Use Only