________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लुषा की पहेचाण ।
प्राक् पादयोः पतति खादति पृष्ठमांस, कर्णे कलं किमपि रौति शनैर्विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्यशङ्क, सर्व खलस्य चरितं मशकः करोति ॥५६८ ॥ पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः । शनैः शनैः पदं धत्ते जीवानां वधशङ्कया ।। ५६९ ।। सहवासी हि विजानाति सहवासिविचेष्टितम् । बकः किं वयेते राम ! येनासो निष्कुलीकृतः॥५०॥
पश्यनपि न मन्येत यस्तस्मै स्वस्ति धीमते ॥५७१॥ विषय कैसा है ?।
आपातमात्रमधुरा, परिणामेऽतिदारुणाः ।
शठवाच इवात्यन्तं, विषया विश्ववञ्चकाः ।। ५७२ ।। आयुष्यादि विनश्वर है।
आयुर्धनं यौवनं च, स्पर्द्धयेव परस्परम् ।
सत्वरं गत्वराण्येव, संसारेऽस्मिन् शरीरिणाम् ।।५७३।। समय समय का काम करता है। उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद् बलवानपि । तपसि मन्दगभस्तिरभीषुमानहि महाहिमहानिकरोऽभवत् ।। को निर्दग्धीत्रपुरजयिना ? कश्च कर्णस्य हन्ता ? नद्या; कूलं विघटयति कः कः परस्त्रीरतश्च ? ॥ ५७४ ॥
For Private And Personal Use Only