________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नराणामिनाः स्वामिनो नरेनाः, नम्राणि नमनशीलानि नरेनानां कानि मस्तकानि येषां ते नम्रनरेनकाः नम्रनरेश्वरमौलय इत्यर्थः ॥ १३ ॥
अथ स्तवसमाप्तिचित्रनामार्थान्तरेण कविः स्वनामकथनाय सर्वदेवस्तुतिरूपं वृत्तमाह
इत्थं नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी, येषां नाममयी सुवर्णमणिभिर्हारावली निर्मिता । | चारित्रप्रभदीक्षितस्तुतपदा देयासुरुचैर्जिनाः, श्रीशत्रुञ्जयशेखरद्युतिभृतः सर्वेऽपि ते मङ्गलम् ॥ १४ ॥
व्याख्या - इत्थममुना प्रकारेण येषां नाममयैः सुवर्णमणिभिः शोभनाक्षरमणिभिः हारावली हारयष्टिः निर्मिता निर्ममे । किंविशिष्टा ? नायकपद्मरागरुचिरा नायकस्थाने तरलमणिपदे चतुर्विंशतिदलपद्मं तस्य रागेण रुचिरा प्रधाना। अपरं किंविशिष्टा ? सत्कण्ठभूषाकरी सतां कण्ठाः सत्कण्ठास्तेषां भूषां शोभां करोतीति सत्कण्ठभूषाकरी । अन्याऽपि या हारावली भवति सा नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी भवति सुवर्णमणिभिर्निमयते । अत एषाप्येवं । ते सर्वेऽपि जिना मङ्गलं देयासुः वितीर्यासुः । उच्चैरतिशयेन । किंविशिष्टा जिनाः ? चारित्रप्रभदीक्षितस्तुतपदाः चारित्रे चरणे प्रभा येषां ते चारित्रप्रभाश्चारित्रिणः, ते च ते दीक्षिताश्च चारित्रप्रभदीक्षिताः साधवः, तैः स्तुताः पदा येषां ते तथा । अपरं किंविशिष्टाः ? श्रीशत्रुञ्जयशेखरद्युतिभृतः श्रीशत्रुञ्जयो विमलाचलः, तस्य शेखरद्युतिं मुकुटकान्तिं विश्वति पुष्णन्तीति श्रीशत्रुञ्जयशेखरद्युति भृतः श्रीशत्रुञ्जयमुकुटतुल्या इत्यर्थः । अथवा ते सर्वे जिना अमङ्गलं पापं उच्चैरति
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir