________________
व्याख्या-अहो इति संबोधने । श्रीश्रेयांस! एकादशजिनपते !। अः विष्णुः, अइव अः, लुप्तोपमत्वाद्विष्णूपमः, तस्य संबोधनं अहो अ अहो श्रेयांसविष्णो । ओदन्तनिपातत्वादसन्धिः। तावके भवदीये हृदि हृदये श्रीर्लक्ष्मीः नितरामतिशयेन सक्ताऽऽसक्ता वर्तते। किंविशिष्टे हृदि ? श्रीवत्सिनि श्रीवत्सयुक्ते । अथापरार्धव्याख्या-हे अनन्त ! चतु- देशजिनपते ! वीराग्रिम युद्धदानधर्मवीरशिरोमणे वदान्य दानशूर प्रियवाक्य । इमानि त्रीण्यामन्त्रणपदानि । मां दीनं| दुःस्थं समीक्ष्य विलोक्य मे मह्यं निजां स्वां यां लक्ष्मी देहि वितरेत्यर्थः॥ ११ ॥
अथ द्वादशत्रयोदशजिनस्तवनमाहग्वासुपूज्यागमिकी श्रुति | श्री
खं कषन्ती भवताऽभ्यसा | वि । | र्णा ममाशा विमलाद्य ना | म,
ज्य | या समं लीनशिरो नतोड | लं ॥१२॥ व्याख्या-वासुपूज्य !द्वादशजिनपते ! आगामिकी आगामिसंबन्धिनी वाग्वाणी भवता त्वया अभ्यसावि अभिसुषुवे।। किं कुर्वती ? श्रुतिश्रीसुखं कपन्ती वेदलक्ष्मीसुखं विनाशयन्ती वेदमार्गोच्छेदिकेत्यर्थः । अथोत्तरार्धव्याख्या-नाम
For PrivAnd Persons
Only