________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कः स्यादम्भसि वारिवायसवति ? क दीपिनं हन्त्ययं ?, लोकः (कं) ? प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः ? । ब्रूते पालयिताऽत्र ? दुर्धरतरः कः क्षुभ्यतोऽम्भोनिधे-- ? ब्रूहि श्रीजिनवल्लभस्तुतिपदं कीदृग्विधाः के सताम् ? ॥ १५९ ॥
अव० – “मद्गुरवोजिनेश्वरसूरयः” । मदुर्जलवायसः तस्य रवः शब्दः । अजिने चर्मणि, निमित्तात्कर्मसंयोगे सप्तमीत्यनेन अजिने इत्यत्र सप्तमी । हे अश्व । रस् लस् शब्दे इतिवचनात् । हे ऊ रक्षक, अवतीति क्विप्, अव्यचीत्यादिना ऊटि रूपं । रयो वेगः । मम जिनवल्लभस्य गुरवो मद्गुरवः । एवंविधाः सन्तः के ? जिनेश्वरसूरयः सतां शिष्टानां स्तुतिपदमित्यर्थः ॥ १५९ ॥
प्रत्येकं हरिधान्यभेदशशिनः पृच्छन्ति किं लुब्धक ?, त्वं प्राप्तं कुरुषे मृगजमथो खादगृहीताऽवदत् । कीदृग्भाति सरोऽर्हतश्च सदनं? किं चाल्पधीर्नाभुवन् पृष्टः प्राह तथाच केन मुनिना प्रश्नावलीयं कृता १९६०
अव० - "जिनवल्लभेन" गतागतद्विर्गतः । हे जिन विष्णो । हे वल भो धान्यभेद । भं नक्षत्रं तस्य इनः तस्य संबोधनं हे भेन इन्दो । नभे हन्मि णभ हिंसायां तस्य वर्तमाना एरूपं । त्रयाणामपि संबोधनं । अत् खादत् लाति
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir