________________
प्रश्नशतम्
जिनवल्लभ--
गृह्णाति अल्लः, अद प्सा भक्षणे, अत्तीति अत् क्विप् , अतं लातीति अल्लः, रा लाऽऽदाने आतोऽनुपसर्गात्कः इति डः(कः)
पररूपे संबोधने हे अल्ल । वनजि वनं पानीयं तत्र जातं वनजं कमलं तद्विद्यते यत्र तत्तथा । तथा जिनो विद्यते 18| यत्र अर्हत्सदने तत् जिनवत् । लभे प्राप्नोमि, न नैव । जिनवल्लभेन नाम्ना ॥ १६ ॥
किमपि यदिहाश्लिष्टं क्लिष्टं तथा विरसं कचित् , प्रकटितप(म)थानिष्टं शिष्टं मया मतिदोषतः। तदमलधिया बोध्यं शोध्यं सुबुद्धिधनैर्मनः, प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि ॥ १६१ ॥
अव०-अश्लिष्टं अर्थेन अनालिङ्गितं । क्लिष्टं अगम्या । अनिष्टं असंमतं । शिष्टं निर्दिष्टं । विमलमत्या पूर्व बोध्यं । पश्चात् शोध्यम् ॥ १६१॥
॥ इति श्रीखरतरगच्छीयश्रीजिनबल्लभसूरिविरचितमेकषष्ट्यधिककाव्यशतनिबद्धं प्रश्नशतं सावचूरिकम् ॥
॥३३॥
Pablished by Venichand Surehand, Secretary Jain Sanskrit Pathashala, Mhesana Printed by R. Y. Shedge at the "Nirmaya-sagar Press," 23, Kolbhat Lane, Bombay.
For PrivAnd Persons
Only