SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ ॥ ३२ ॥ www.kobarth.org कुलानि तेषां चलन्ति अक्षीणि यत्रारण्ये तत्तथा । क्षेमकरं शुभकरं बह्वयः प्रचुराश्च ता लहर्यश्च तासु तरन्तः शाकुला जीवविशेषाः, चलन्तश्च शङ्खा यत्राब्धौ स तथा तस्मिन् । मकरम् ॥ १५६ ॥ | कोधर्मः स्मृतिवादिनां? दधति के द्विः सप्तसंख्या मिह ?, प्रार्थ्यन्ते च जनेन के भवभवाः ? पुंसां श्रियः कीदृशः ? | के वाऽभ्रङ्कषकोटयः शिखरिणां रेजुस्तथा कांचन, श्रीरस्मानजनिष्ट नाङ्गजमिति प्रोक्तान् वदेत्किं स्मरः १ ॥ अव० –“मामसूतसानवः” मञ्जरीसनाथजातिभेदः । मनोः ऋषेः अयं मानवः, अणि रूपं । मनवः मनुशब्देन चतुर्दशाभिधीयन्ते । सूनवः पुत्राः । तनवः तुच्छाः । सानवः प्रस्थाः । मां स्मरं असूत जनितवती सा लक्ष्मीः, न नैव वो युष्मान् । यदा केचनैवं वक्तारो भवन्ति यदुत “श्रीलक्ष्मीरस्मानेव जनितवती नाङ्गजं कामदेवं” तदाङ्गजः कामदेव स्तान्प्रतीति प्रतिपादयेत् इत्यर्थः ॥ १५७ ॥ | पाके धातुरवाचि कः ? क भवतो भीरो! मनःप्रीतये?, सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः ? । | पाणौ किं मुरजिद्दिभर्ति ? भुवि तं ध्यायन्ति वा के सदा?, के. वा सद्गुरवोऽत्र चारुचरणश्रीसुश्रुता विश्रुताः ? अव ०—“श्रीमदभयदेवाचार्याः” । श्री पाके इतिवचनात् श्रीधातुः । ममाभयं ददातीति मदभयदस्तस्मिन् यो मदभयं ददातीति तत्र मम मनः प्रीतियुक्तं भवतीत्यभिप्रायः । वाचा वचनेन । अरा विद्यन्ते यत्र तदरि चक्रं । ए विष्णौ भक्तिर्येषां ते आः वैष्णवाः, तत्र भक्तिरित्यण ॥ १५८ ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir प्रश्नशतम् ॥ ३२ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy