________________
Shri Mahavir Jain Aradhana Kendra
प्र० ६
www.kobarth.org
मा माने पञ्चमी आम नम प्रणम । साम सामवेदं । हे राम । दं कलत्रं । एः कामस्यापत्यं अः, अपत्येऽणि इवर्णेत्यादिना इलोपे प्रत्ययमात्रावस्थानं, तत्संबोधनं हे अ कामसुत । हे अम रोग ॥ १४९ ॥
विकरुण ! भण केन किमाधेया ?, का रज्यते च केन जनोऽयम् ? ।
कार्या च का वाणिज्या ?, का धर्मे नेष्यते ? कयाsरञ्जि हरिः ? ॥ १५० ॥
अब ० - "यायमानसाराद हेम" विपरीतमञ्जरीसनाथजातिः । मया हेया दया मया दया त्याज्येत्यर्थः । राया द्रव्येण । सह आयेन लाभेन वर्तते या सा साया नया वाणिज्या | माया निकृतिः । यया लक्ष्म्या ॥ १५० ॥ काः कीदृशीः कुरुध्वे किं ?, तोषाभिनर्षयो यूयम् । किमहं करवै मदनभयविधुरितः कान् कया कथय ? । १५१ ।
अव० –“यायमानसारादहेम" गतागतः । त्रिष्वेकमुत्तरं । या लक्ष्मीः, अमानसारा अपूजाप्रधानाः । दहेम दह भस्मीकरणे सप्तमी याम । मह पूजय । एः कामात् दरो भयं तं अस्यन्ति क्षिपन्ति ये ते इदरासास्तान् । अमायया छद्माभावेन ॥ १५१ ॥
कृषीवलः पृच्छति की गार्हतः ?, क केन विद्वानुपयाति हास्यताम् ? ।
सुरालय क्रीडनचचुरुच्चकै युतिक्षणे शोचति निर्जरः कथम् ? ।। १५२ ॥
अव० - मन्धानजातिः “हालिक, कलिहा, नालिके, केलिना, नाककेलि हा" । हे हालिक कृषीवल । कलिं युद्धं
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir