________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अव० - " तामस समता, सारस सरसा, साहस सहसा, मारस सरमा, समरहर, तासासामास" पद्मजातिः । हे तामस अन्धकार, समता । हे सारस, सरसा सरोवरेण । हे साहस अपर्यालोचितकर्म, सहसा बलेन । मारं कामं स्यति तनूकरोतीति मारसः तत्संबोधनं हे मारस । सरमा शुनी । समरं सङ्ग्रामं हरतीति तत्संबोधनं हे समरहर । ता लक्ष्मीः । सा सा सैव । मा आस मा चिक्षेप ॥ १४५ ॥
किमभिदधौ करभो, सततगतिं किल पतिः स्थिरीकर्तुम् ? | जननी पृच्छति विकचे, कस्मिन् सन्तुष्यते भ्रमरः ? ।। १४६ ॥
अव० - " मातरम्भोरुहे" द्विर्गतः । मा अत मा गच्छ, रम्भावत् ऊरू यस्याः सा तथा तस्याः संबोधनं रम्भोरु, हे । हे मातर्जननि अम्भोरुहे पद्मे ॥ १४६ ॥
प्राधान्यं धान्यभेदे क ? कथयति वयः कीदृशी वायुपत्त्री ?, नक्षत्रं वक्ति कुर्वे किमहमिनमिति प्राह शैत्रोपजीवी ? | ब्रूहि ब्रह्मखरं च क्षितकमभिगद प्रोल्लसलीलमञ्ज
लापामामन्त्रय स्त्रीं व सजतिन जनः प्राह कोऽप्यम्बुपक्षी ॥ १४७ ॥
१ टीकान्तरे मन्थानान्तरजातिः । २ तत्स्तोत्रजीवी इति वा पाठः ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir