________________
जिनवल्लभ- अव०-"मयाध्यासामासयुवाता" मञ्जरीसनाथजातिः । मताऽभिमता, याता बहिर्गच्छता । यदा भर्ता बहिर्ग-5 प्रश्न
च्छति तदाऽभिमता स्त्री ताम्यतीत्यर्थः । ध्याता सती। सा लक्ष्मीः, ता श्रीः अथवा अता चञ्चला इति विदितेत्यर्थः । ॥२८॥ माता जननी । सता विद्यमानेन । युता सहिता आत्मना सहिता प्रकृतिः सांख्यैः इष्यते । वाता कम्पिना ॥ १४०॥
केष्टा विष्णोर्निगदति गदः प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसंबोधनं किम् ? । प्राहर्जुः किं जिगमिषुमिनं वक्ति कान्ताऽनुरक्ता, सान्त्वं धूम्र प्रहरमपि संबोधयानुक्रमेण ॥ १४१॥ | अव०-"मयाध्यासामासयुवाता" विपरीतमञ्जरिजातिः। ता लक्ष्मीः। हे अम रोग । हे वाम सव्येतर । ईश्च उमा च युमं तत्संबोधनं हे युम । हे सम ऋजो। मा अम मा गच्छ । हे साम समते।हे ध्याम धूम्र । हे याम प्रहर ॥१४१॥
भण केन किं प्रचक्रे, नयेन भुवि कीदृशेन का नृपते ?।
काः पृच्छति तरलतरः, के यूयं किं कुरुत सततम् ?॥ १४२ ॥ अव०-"मयाध्यासामासयुवाता" गतागतः त्रिष्वेकमुत्तरं । मया, अवतीति क्विपि तृतीयैकवचने उवा रक्षकेण, है ता राज्यादिलक्ष्मीः, अध्यासामासे । हे वायुसम हे तरलतर, ता लक्ष्मीः, असा निर्धनाः सन्तः, ध्यायाम (1)॥१४२॥
१ कम्पमानेन ।
KATSASAASAASAASAASAASAASAIS
For Prve And Person Use Only