________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
हितस्तस्य संबोधनं हे निरे निष्काम । कदागमे घनागमे सति उरगादिनो मयूराः केका मयूरध्वनीन् विस्तारयन्ति | स्मेत्यर्थः ॥ १३४ ॥
संबोधयार्धमहिमांशुकरैः स्वभावं कुर्वे कि (क) मित्यभिदधाति किलार्द्रभावः ? ।
शान्ति वद प्रहरमाह्वय पृच्छ पुच्छं, ब्रूयास्तनूरुहमुदाहर मातुलं च ॥ १३५ ॥
अव० - "नेवस्तेशयालुलोमाम" मञ्जरीसनाथजातिः । हे नेम अर्ध, वम त्यज, हे स्तेम आर्द्रभाव, तिम तीम ष्टिम टीम आर्द्रभावे । आदित्यकरेषु सत्सु आर्द्रभावो न भवतीत्यर्थः । हे शम उपशम हे याम प्रहर । हे लूम पुच्छ । हे लोम रोमराजे । हे माम मातुल ॥ १३५ ॥
किं कुर्या हरिभक्तिमाह कमला कुत्र च्युते चाटुभिः ?, कीदृक्षे किल शुकशुक्ल वचसी कञ्चित्खगं प्राहतुः ? । ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यैः क्व चारुह्यते ?,
वक्त्यार्कः क चुरा चकास्ति विमले कस्मिन्सरोजावली ? ।। १३६ ।।
अव० – “ नेवस्तेशयालुलोमाम” विपर्यस्तमञ्जरीसनाथजातिः । मने मनिता । मानेऽहङ्कारे च्युते सति । हे इ कमले हरेः संबन्धिभिर्बहुभिः चाटुकारैः अहङ्कारे माने च्युते व्यतीते सति हरेर्विष्णोः संबन्धिनीभिर्भक्तिभिः त्वया
For Private And Personal Use Only
Acharya Shri Kalissagarsun Gyanmandir