________________
Shri Mahavir Jain Aradhana Kendra
जिनवल्लभ
॥ २६ ॥
www.kobarth.org
ते (के) कीदृशाः क कृतिनो ? व्यञ्जनमाह रिपवोऽनमन् कस्मै ? | कां पातीन्द्रः पट्टो ब्रवीति ? कीदृक् क भूः प्रायः ? ।। १३३ ।।
अव०—–मन्थानजातिः, “ये रता जिनमते, तेमनजितारये, लेखराजिमासन, नसमाजिराखले” । ये रता अभियुताः जिनस्य मतं जिनमतं तस्मिन् । हे तेमन व्यञ्जन जिता अरयो येन स तथा तस्मै । लेखराजं लेखश्रेणिं पातीत्यर्थः, हे आसन पट्ट । न समाजिरा समप्राङ्गणा खलें ॥ १३३ ॥
वर्षाः शिखण्डिकलनादवतीर्विचिन्त्य, शैलाश्ववक्त्रदहनाक्षरवावदूकान् ।
लक्ष्मीश्च नष्टमदनश्च समानवर्ण - दत्तोत्तरं कथय किं पृथगुक्तवन्तौ ? ॥ १३४ ॥
अव० - "कदागमयुरगादिनः केकास्तेनिरे” । कदा कस्मिन् काले । अगः पर्वतः । मयुरश्ववक्त्रं । रो दहनाक्षरो मान्त्रिकप्रसिद्धः । गदतीति गादी वावदूकः । अगश्च मयुश्च रश्च गादी च अगमयुरगादिनः तेषां संबोधनं हे अगमयुरगादिनः । के कर्तारः, काः कर्मतापन्नाः, तेनिरे विस्तारितवन्तः इति प्रश्नार्थः । उत्तरं कं पानीयं तद्ददातीति कतो मेघः, तस्यागमः स तथा तस्मिन् । उरगान् सर्पानदन्तीति उरगादिनो मयूराः कर्तारः । केका मयूरध्वनयः ( ताः ) | कर्मतापन्नाः । ता लक्ष्मीः तस्याः संबोधनं हे ते लक्ष्मि । इः कामः, निर्गत इः कामो यस्यासौ निरिः कामर
१ देवश्रेणिम् । २ वक्त्रः इति स्यात् मयुशब्दपर्यायस्य अश्ववक्त्रशब्दस्य किंनरवाचकत्वेन नित्यपुंल्लिङ्गत्वात् ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
प्रश्नशतम्
॥ २६ ॥