SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं ?, वदति विगलितश्रीः कीदृशं कामिवृन्दम् ? । प्रणिगदति निषेधार्थ पदं तन्त्रयुक्त्या, कृतिभिरभिनियुक्तं किं किलाहं करोमि ? ॥ १३१ ॥ अव०-"नत्वमसि'।(द्विः समस्तः) नमतीति नत् विप् तगागमः पञ्चमलोपश्च नत् तं अवति रक्षति नतूः | संप्रसारणं, नपुंसकत्वे नतु । न विद्यते मा लक्ष्मीर्यस्यासी अमस्तस्य संबोधनं हे अम गतलक्ष्मीक । सि सह इना कामेन वर्तत इति सहस्य सादेशे सति से इति भवति, ततः स्वरो इस्व इति इस्वः । कोऽर्थः ? कामेन सह वर्तत द्र इत्यर्थः । हे नकार त्वमसि निषेधार्थः॥१३१॥ दम्पत्योःकाकीहक्के कं भेजुरिति सुनृपते! ब्रूहि?|मुक्ताः कयाद्रियन्ते,वदत्यपाच्यश्च मदनधुक् कीदृक् ?१३२ अव०–मन्थानजातिः, "मायानमदनदा, दानदमनयामा, हारदामकाम्यया, याम्यकामदारहा” । माया निकृतिः 15/न मदनदा न कामदा । दानदमनया मा मां नृपतिं दानं च दमश्च नयश्च ते दानदमनयाः कर्तारो मां कर्मतापन्नं दश्रयन्ति, मय्याश्रिता भवन्तीत्यर्थः । हारदामकाम्यया हारयष्टिवाञ्छया मौक्तिकहाराभिलाषेण मुक्ताफलानि आद्रि यन्त इत्यर्थः। यमस्येयं यामी तस्यां भव आगतो वा याम्यस्तस्य संबोधनं हे याम्य दाक्षिणात्य, कामदार मन्मथभायी ४ाहन्ति कामदारहा मन्मथकलत्रविनाशकः ॥ १३२॥ १ कामदारान् इति स्यात् कलत्रवाचकदारशब्दस्य नित्यबहुवचनान्तत्वात् ।
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy