________________
Shri Mahavir Jain Aradhana Kendra
जिनवल्लभ
॥ २५ ॥
www.kobatirth.org.
लङ्केश्वरवैरिवैष्णवाः केऽप्याहुः प्रीतिरकारि केन केषाम् ? ।
किमकृत के विक्रमासिकालः ? क्ष्माधरवारुणबीजगाव आख्यन् ॥ १२८ ॥
अव० –“आदशकंधरवधेनवः” युगलकं । आ समंतादशकन्धरस्य रावणस्य वधः स तथा तेन वो युष्माकं हे लङ्केश्वरवैरिवैष्णवाः तद्वधेन भवतां समन्तात्प्रीतिरुत्पादितेत्यर्थः । आद भक्षितवान् शकं राजानं । हे घर पर्वत, बं वारुणबीजं मान्त्रिकप्रसिद्धं धेनवः गावः ॥ १२८ ॥
प्राह रविर्मदिरहे, कैस्तेजः श्रीः क्रमेण किं चक्रे ?। कीदृशि च नदीतीर्थे, नावतितीर्षन्ति हितकामाः ? १२९
अव० –“अहिमकर भैरवापे" । हे अहिमकर आदित्य भैर्नक्षत्रैः अवापे लब्धा । अहिमकरैभैरवा भीषणा आपः पानीयानि यत्र तीर्थे तत्तथा तस्मिन् ॥ १२९ ॥
स्थिरसुरभितया ग्रीष्मे, ये रागिष्ठा विचिन्त्य तान्प्रश्नम् । यं चक्रे करिपुरुष - स्तदुत्तरं प्राप तत्रैव ॥ १३० ॥
अव ० "केसराग जनरुचिताः” । सह रागेण वर्तन्त इति सरागाः, ते च ते जनाश्च तेषां रुचिताः के ? इति प्रश्नार्थः । उत्तरं — केसरा बकुलाः गजस्य ना पुरुषः गजना तस्य संबोधनं हे गजनः हे हस्तिपक, उचिताः
प्रशस्याः ॥ १३० ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
७७
प्रश्नशतम्
।। २५ ।।