________________
ShriMahiyeJain ArachanaKendra
Acharya Shn
a garson Gyaman
जिनवल्लभ-
प्रश्वशतम्
SCALCULARLALAM
गुरुविस्तीर्णः शिखी वह्निस्तस्य विधुरो व्यसन, तत्र विज्ञाः, ते च ते सिता मन्दाराश्चागुरवश्च, तैश्चितं संभू (भृ ) तं गुरुशिखिविधुरविज्ञसितमन्दारागुरुचित॥ ११९ ॥ श्रुतिसुखगीतगतमनाः,श्रीसुतबन्धनवितर्कणैकरुचिः। प्रश्नं चकार यं किल,तदुत्तरं प्रापतत एव॥१२०॥ | अव०-"काकलीभूयमनोहरते" समवर्णप्रश्नोत्तरजातिः। का कलीभूय कोमलीभूय मनो हरते ? काकली गीतं, ईर्लक्ष्मीस्तस्या भवतीति ईभूः तस्य यमनं बन्धनं, तस्मिन् अहो वितर्कस्तत्र रतिर्यस्य स तथा तस्य संबोधनं हे ईभूयमनोहरते ॥ १२०॥ स्मरगुहराधेयान किल, दृष्ट्याऽग्रेऽङ्गारशकटिकापृच्छत् । किं शत्रुश्रुतिमूलं, प्रश्नाक्षरदत्तनिर्वचनम् ॥१२॥ | अव०-"इहारिकर्णजाहसन्तिके" । इहात्र । हे अरिकर्णजाह शत्रुकर्णमूल सन्ति विद्यन्ते के ? उत्तरं-इ. कामः, हरस्यापत्यं हारिः कार्तिकेयः, कर्णजः कर्णसुतः, ते सन्ति, अग्रे हे हसन्तिके अङ्गारशकटिके ॥ १२१ ॥ जन्तुः कश्चन वक्तिका करमते?प्रोचुःकचान कीदृशान्,ब्रह्मादित्रयमत्र कः कृशयति?वेडागमःस्याजने? किं वाऽनुक्तसमुच्चये पदमथो धातुश्च कोभर्त्सने?,किं सूत्रं सुधियोऽध्यगीतबुधा विश्रान्तविद्याधराः?१२२ ___ अव०-"झध्येकाचोवशः स्ध्वोश्च भए" । हे झषि शफरि । ईलक्ष्मीः, ए विष्णौ । के मस्तकमश्चन्ति पूजयन्तीति
१ मदनः ।
For Private And Personal use only