SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org कपटपटुदेवताच, बुद्धिप्रभुतोद्भवो नरः स्मृत्वा । समवर्णवितीर्णोत्तर - मकष्टमाचष्ट के प्रश्नम् ? | ११७॥ अव० - "कं समायंध्यायतिजनः” । कं देवविशेषं समायं सह मायया वर्तत इति समायः मायायुक्तस्तं ध्यायति पूजयति, जनो लोकः ? इति प्रश्नः । कंसं मीनाति हिनस्ति कंसमायः, कर्मण्यण, मीनातीत्यादिनाऽकारप्रत्ययः, माय इति सिद्धं, कंसमायं विष्णुं । धीर्बुद्धिः आयतिदीर्घता प्रभुतेत्यर्थः । ततो दीर्घस्य भाव इति कृत्वा ध्यायती, ताभ्यां जातः ध्यायतिजः, स चासौ ना च पुरुषश्च तस्य संबोधनं हे ध्यायति जनः ॥ ११७ ॥ भृङ्गः प्राह नृपः क्व रज्यति बत? स्थैर्यं न कस्मिन् जने ?, युद्धं वक्ति दुरोदरव्यसनिता कुत्र ? क्व भूम्म्रा गुणाः ? | कस्मिन् वातविधूनिते तरलता ब्रूते सखी कापि मे?, कोद्गच्छत्यभि वल्लभं विलसतोऽसङ्कोचने लोचने १९१८ अव० - " अवलोकनकुतूहले" अष्टदलं विपरीतं कमलं । हे अले भ्रमर । बले सैन्ये । लोले चञ्चले । हे कले युद्ध । नले राजनि । कुले प्रधानकुले । तूले । हले सखि । अवलोकन कौतुके उद्गच्छति सति ॥ ११८ ॥ कीदृक्षमन्तरिक्षं स्या - नवग्रहविराजितम् ? । हनूमता दह्यमानं, लङ्कायाः कीदृशं वनम् ? ।। ११९ ॥ अव० – “गुरुशिखिविधुरविज्ञशि (सि) तमंदारागुरुचितं” । गुरुर्बृहस्पतिः । शिखी केतुः । विधुः सोमः । रविः आदित्यः । ज्ञो बुधः । शि ( सि ) तः शुक्रः । मन्दः शनैश्वरः । आरो मङ्गलः । अगू राहुः । तैः रुचितं दीप्तं । For Private And Personal Use Only Acharya Shri Kaliassagarsun Gyanmandr
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy