________________
काचः शसन्तस्य रूपमिदं । उब्रह्मा, उः शंकरः, अः विष्णुः, उश्च उश्च अश्च वाः तान् श्यति तनूकरोति वशः। सकारध्वप्रत्यययोरिड् जनेः स्ध्वोश्चेत्यनेन । चकारः। भए भर्त्सने इति वचनात् । अध्येकेत्यादि विश्रान्तविद्याधरा व्याकरणसूत्रं, सूत्रोत्तरजातिः ॥ १२२॥
याञ्चार्थविततपाणिं, द्रमकं स्मृत्वा सदर्थलोभेन । यैवर्णेर्यदपृच्छत्तैरेव तदुत्तरं लेभे ॥ १२३ ॥ हा अव०-"तत्वाययाचकरङ्कः" । तत्वा विस्तार्य करं हस्तं ययाच याचितवान् कः ? । उत्तरं-तत्वाय लाभाय लाभनिमित्तं याचकश्चासौ रङ्गश्च स तथा ॥ १२३ ॥
मानं कुत्र ? क भाण्डे नयति ? लघु(सु)धामाप्तिराहानुकम्पा?, शैत्यं कुत्र? क लोको न सजति ? तुरगः क्वार्च्यते ? क व्यवस्था ? । श्रीब्रूते मुत् क पुंसां ? क च कमलतुला ? मूलतः काशुचित्वं,
कस्मै सर्वोऽपि लोकः स्पृहयति पथिकैः सत्पथे किं प्रचक्रे ? ॥ १२४ ॥ | अव०-"मेनेमदतोक्षरनयशकारातेये” मञ्जरीसनाथजातिः । मेये द्रव्ये । नेये नेतव्ये । मये उष्ट्र। हे दये अनुकम्पे । तोये पानीये । क्षये विनाशे । रये वेगे । नये नीती। या लक्ष्मीः तस्याः संबोधनं हे ये ए विष्णौ । शये पाणी